गीत गोविन्द हिंदी लिरिक्स

गीत गोविन्द हिंदी लिरिक्स| गीतगोविन्दं | गीत गोविन्दं हिंदी लिरिक्स | गीत गोविन्दं संस्कृत लिरिक्स | जयदेव कृत गीत गोविन्दं | गीत गोविन्द | गीता गोविन्द | श्री गीत गोविन्द | Geet Govindam composed by Jaidev | Geet Govind Hindi Lyrics | Geet Govind Sanskrit Lyrics | Geet Govindam Hindi Lyrics | Gita Govind by Jaidev | Shri Geet Govind

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

 

Geet Govind Hindi Lyrics

 

 

गीतगोविन्दं प्रथमः सर्गः – सामोद दामोदरः

 

॥ गीतगोविन्दम् ॥

॥ अष्टपदी ॥

 

॥ श्री गोपालक ध्यानम् ॥

 

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं

यल्लक्ष्मीकुचशातकुम्भ कलशे व्यागोचमिन्दीवरम् ।

यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां

तन्नश्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ 1 ॥

 

गीत गोविन्द हिंदी लिरिक्स

 

॥ श्री जयदेव ध्यानम् ॥

 

राधामनोरमरमावररासलील-

गानामृतैकभणितं कविराजराजम् ।

श्रीमाधवार्च्चनविधवनुरागसद्म-

पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ 2 ॥

 

श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति

श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥

लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः

तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ 3 ॥

 

॥ प्रथमः सर्गः ॥

॥ सामोददामोदरः ॥

 

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-

र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।

इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं

राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ 1 ॥

 

वाग्देवताचरितचित्रितचित्तसद्मा

पद्मावतीचरणचारणचक्रवर्ती ।

श्रीवासुदेवरतिकेलिकथासमेतं

एतं करोति जयदेवकविः प्रबन्धम् ॥ 2 ॥

 

यदि हरिस्मरणे सरसं मनो

यदि विलासकलासु कुतूहलम् ।

मधुरकोमलकान्तपदावलीं

शृणु तदा जयदेवसरस्वतीम् ॥ 3 ॥

 

वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां

जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।

शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी

कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ 4 ॥

 

॥ गीतं 1 ॥

 

प्रलयपयोधिजले धृतवानसि वेदम् ।

विहितवहित्रचरित्रमखेदम् ॥

केशव धृतमीनशरीर जय जगदीश हरे ॥ 1 ॥

 

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।

धरणिधरणकिणचक्रगरिष्ठे ॥

केशव धृतकच्छपरूप जय जगदीश हरे ॥ 2 ॥

 

वसति दशनशिखरे धरणी तव लग्ना ।

शशिनि कलङ्ककलेव निमग्ना ॥

केशव धृतसूकररूप जय जगदीश हरे ॥ 3 ॥

 

तव करकमलवरे नखमद्भुतशृङ्गम् ।

दलितहिरण्यकशिपुतनुभृङ्गम् ॥

केशव धृतनरहरिरूप जय जगदीश हरे ॥ 4 ॥

 

छलयसि विक्रमणे बलिमद्भुतवामन ।

पदनखनीरजनितजनपावन ॥

केशव धृतवामनरूप जय जगदीश हरे ॥ 5 ॥

 

क्षत्रियरुधिरमये जगदपगतपापम् ।

स्नपयसि पयसि शमितभवतापम् ॥

केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ 6 ॥

 

वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।

दशमुखमौलिबलिं रमणीयम् ॥

केशव धृतरामशरीर जय जगदीश हरे ॥ 7 ॥

 

वहसि वपुषि विशदे वसनं जलदाभम् ।

हलहतिभीतिमिलितयमुनाभम् ॥

केशव धृतहलधररूप जय जगदीश हरे ॥ 8 ॥

 

निन्दसि यज्ञविधेरहह श्रुतिजातम् ।

सदयहृदयदर्शितपशुघातम् ॥

केशव धृतबुद्धशरीर जय जगदीश हरे ॥ 9 ॥

 

म्लेच्छनिवहनिधने कलयसि करवालम् ।

धूमकेतुमिव किमपि करालम् ॥

केशव धृतकल्किशरीर जय जगदीश हरे ॥ 10 ॥

 

श्रीजयदेवकवेरिदमुदितमुदारम् ।

शृणु सुखदं शुभदं भवसारम् ॥

केशव धृतदशविधरूप जय जगदीश हरे ॥ 11 ॥

 

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं

दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते

म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ 5 ॥

 

॥ गीतं 2 ॥

 

श्रितकमलाकुचमण्डल! धृतकुण्डल! ।

कलितललितवनमाल! जय, जय, देव! हरे! ॥ 1 ॥

 

दिनमणीमण्डलमण्डन! भवखण्डन! ।

मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ 2 ॥

 

कालियविषधरगञ्जन! जनरञ्जन! ।

यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ 3 ॥

 

मधुमुरनरकविनाशन! गरुडासन! ।

सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ 4 ॥

 

अमलकमलदललोचन! भवमोचन्! ।

त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ 5 ॥

 

जनकसुताकृतभूषण! जितदूषण! ।

समरशमितदशखण्ठ! जय, जय, देव! हरे! ॥ 6 ॥

 

अभिनवजलधरसुन्दर! धृतमन्दर! ।

श्रीमुखचन्द्रचकोर! जय, जय, देव! हरे! ॥ 7 ॥

 

श्रीजयदेवकवेरिदं कुरुते मुदम् ।

मङ्गलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ 8 ॥

 

पद्मापयोधरतटीपरिरम्भलग्न-

काश्मीरमुद्रितमुरो मधुसूदनस्य ।

व्यक्तानुरागमिव खेलदनङ्गखेद-

स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ 6 ॥

 

वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-

र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।

अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया

वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ 7 ॥

 

॥ गीतं 3 ॥

 

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।

मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥

विहरति हरिरिह सरसवसन्ते नृत्यति

युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ 1 ॥

 

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।

अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे ॥ 2 ॥

 

मृगमदसौरभरभसवशंवदनवदलमालतमाले ।

युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ 3 ॥

 

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।

मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ 4 ॥

 

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।

विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ 5 ॥

 

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।

मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ 6 ॥

 

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।

बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ 7 ॥

 

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।

सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ 8 ॥

 

दरविदलितमल्लीवल्लिचञ्चत्पराग-

प्रकटितपटवासैर्वासयन् काननानि ।

इह हि दहति चेतः केतकीगन्धबन्धुः

प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ 8 ॥

 

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-

क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।

नीयन्ते पथिकैः कथङ्कथमपि ध्यानावधानक्षण-

प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ 9 ॥

 

अनेकनारीपरिरम्भसम्भ्रम-

स्फुरन्मनोहारिविलासलालसम् ।

मुरारिमारादुपदर्शयन्त्यसौ

सखी समक्षं पुनराह राधिकाम् ॥ 10 ॥

 

॥ गीतं 4 ॥

 

चन्दनचर्चितनीलकलेबरपीतवसनवनमाली ।

केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥

हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ 1 ॥

 

पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।

गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ 2 ॥

 

कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।

ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ 3 ॥

 

कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।

चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ 4 ॥

 

केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।

मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ 5 ॥

 

करतलतालतरलवलयावलिकलितकलस्वनवंशे ।

रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ 6 ॥

 

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।

पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ 7 ॥

 

श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।

वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ 8 ॥

 

विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-

श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।

स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः

शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ 11 ॥

 

अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं

प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।

किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-

दुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ 12 ॥

 

रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-

मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।

साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-

व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ 13 ॥

 

॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥

 

गीतगोविन्दं द्वितीयः सर्गः – अक्लेश केशवः

 

॥ द्वितीयः सर्गः ॥

॥ अक्लेशकेशवः ॥

 

विहरति वने राधा साधारणप्रणये हरौ

विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।

क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-

मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ 14 ॥

 

॥ गीतं 5 ॥

 

सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।

चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥

रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ 1 ॥

 

चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।

प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ 2 ॥

 

गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।

बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ 3 ॥

 

विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।

करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ 4 ॥

 

जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् ।

पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ 5 ॥

 

मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।

पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ 6 ॥

 

विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।

मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ 7 ॥

 

श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।

हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ 8 ॥

 

गणयति गुणग्रामं भामं भ्रमादपि नेहते

वहति च परितोषं दोषं विमुञ्चति दूरतः ।

युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना

पुनरपि मनो वामं कामं करोति करोमि किम् ॥ 15 ॥

 

॥ गीतं 6 ॥

 

निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।

चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥

सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ 1 ॥

 

प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।

मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ 2 ॥

 

किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।

कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ 3 ॥

 

अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।

श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ 4 ॥

 

कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।

श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ 5 ॥

 

चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् ।

मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ 6 ॥

 

रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।

निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ 7 ॥

 

श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।

सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ 8 ॥

 

हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-

वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।

मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने

गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ 16 ॥

 

दुरालोकस्तोकस्तबकनवकाशोकलतिका-

विकासः कासारोपवनपवनोऽपि व्यथयति ।

अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-

प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ 17 ॥

 

॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥

 

गीतगोविन्दं तृतीयः सर्गः – मुग्ध मधुसूदनः

 

॥ तृतीयः सर्गः ॥

॥ मुग्धमधुसूदनः ॥

 

कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।

राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ 18 ॥

 

इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः ।

कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ 19 ॥

 

॥ गीतं 7 ॥

 

मामियं चलिता विलोक्य वृतं वधूनिचयेन ।

सापराधतया मयापि न वारितातिभयेन ॥

हरि हरि हतादरतया गता सा कुपितेव ॥ 1 ॥

 

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।

किं धनेन जनेन किं मम जीवनेन गृहेण ॥ 2 ॥

 

चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।

शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ 3 ॥

 

तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।

किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ 4 ॥

 

तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।

तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ 5 ॥

 

दृश्यते पुरतो गतागतमेव मे विदधासि ।

किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥ 6 ॥

 

क्षम्यतामपरं कदापि तवेदृशं न करोमि ।

देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ 7 ॥

 

वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।

किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ 8 ॥

 

हृदि बिसलताहारो नायं भुजङ्गमनायकः

कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।

मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर

न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ 20 ॥

 

पाणौ मा कुरु चूतसायकममुं मा चापमारोपय

क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।

तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-

श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ 21 ॥

 

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां

श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।

मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान्

सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ 22 ॥

 

तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-

स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।

सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं

तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ 23 ॥

 

भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।

तस्यामनङ्गजयजङ्गमदेवतायां अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ 24 ॥

 

तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-

दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।

सम्मुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-

सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (25) ॥

 

॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥

 

गीतगोविन्दं चतुर्थः सर्गः – स्निग्ध मधुसूदनः

 

॥ चतुर्थः सर्गः ॥

॥ स्निग्धमधुसूदनः ॥

 

यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।

प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ 25 ॥

 

॥ गीतं 8 ॥

 

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।

व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥

सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥

 

अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।

स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥

 

कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।

व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥

 

वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।

विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ 4 ॥

 

विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।

प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥

 

प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।

त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥

 

ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।

विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ 7 ॥

 

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।

हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥

 

आवासो विपिनायते प्रियसखीमालापि जालायते

तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।

सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं

कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥

 

॥ गीतं 9 ॥

 

स्तनविनिहितमपि हारमुदारम् ।

सा मनुते कृशतनुरतिभारम् ॥

राधिका विरहे तव केशव ॥ 1 ॥

 

सरसमसृणमपि मलयजपङ्कम् ।

पश्यति विषमिव वपुषि सशङ्कम् ॥ 2 ॥

 

श्वसितपवनमनुपमपरिणाहम् ।

मदनदहनमिव वहति सदाहम् ॥ 3 ॥

 

दिशि दिशि किरति सजलकणजालम् ।

नयननलिनमिव विगलितनालम् ॥ 4 ॥

 

नयनविषयमपि किसलयतल्पम् ।

कलयति विहितहुताशविकल्पम् ॥ 5 ॥

 

त्यजति न पाणितलेन कपोलम् ।

बालशशिनमिव सायमलोलम् ॥ 6 ॥

 

हरिरिति हरिरिति जपति सकामम् ।

विरहविहितमरणेन निकामम् ॥ 7 ॥

 

श्रीजयदेवभणितमिति गीतम् ।

सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥

 

सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति

ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।

एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात्

स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ 27 ॥

 

स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।

विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ 28 ॥

 

कन्दर्पज्वरसञ्ज्वरस्तुरतनोराश्चर्यमस्याश्चिरं

चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति ।

किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं

ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥

 

क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।

श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥

 

॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥

 

गीतगोविन्दं पञ्चमः सर्गः – साकाङ्क्ष पुण्डरीकाक्षः

 

॥ पञ्चमः सर्गः ॥

॥ साकाङ्क्षपुण्डरीकाक्षः ॥

 

अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।

इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥

 

॥ गीतं 10 ॥

 

वहति मलयसमीरे मदनमुपनिधाय ।

स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥

तव विरहे वनमाली सखि सीदति ॥ 1 ॥

 

दहति शिशिरमयूखे मरणमनुकरोति ।

पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥

 

ध्वनति मधुपसमूहे श्रवणमपिदधाति ।

मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥

 

वसति विपिनविताने त्यजति ललितधाम ।

लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥

 

रणति पिकसमवाये प्रतिदिशमनुयाति ।

हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥

 

स्फुरति कलरवरावे स्मरति मणितमेव।

तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥

 

त्वदभिधशुभदमासं वदति नरि शृणोति ।

तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥

 

भणति कविजयदेवे विरहविलसितेन ।

मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥

 

पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-

स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।

ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं

भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ 32 ॥

 

॥ गीतं 11 ॥

 

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।

न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥

धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥

 

नाम समेतं कृतसङ्केतं वादयते मृदुवेणुम् ।

बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ 2 ॥

 

पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।

रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ 3 ॥

 

मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् ।

चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ 4 ॥

 

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।

तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥

 

विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।

किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥

 

हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।

कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥

 

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।

प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥

 

विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते

प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।

रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते

मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ 33 ॥

 

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो

गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।

कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना

तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥

 

आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-

प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः ।

अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-

र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥

 

सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि

प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।

कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि

सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥

 

राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली

नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।

स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः

कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥ 36 + 1 ॥

 

॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥

 

गीतगोविन्दं षष्टः सर्गः – कुण्ठ वैकुण्ठः

 

॥ षष्ठः सर्गः ॥

॥ कुण्ठवैकुण्ठः ॥

 

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।

तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ 37 ॥

 

॥ गीतं 12 ॥

 

पश्यति दिशि दिशि रहसि भवन्तम् ।

तदधरमधुरमधूनि पिबन्तम् ॥

नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे – ध्रुवम् ॥ 1 ॥

 

त्वदभिसरणरभसेन वलन्ती ।

पतति पदानि कियन्ति चलन्ती ॥ 2 ॥

 

विहितविशदबिसकिसलयवलया ।

जीवति परमिह तव रतिकलया ॥ 3 ॥

 

मुहुरवलोकितमण्डनलीला ।

मधुरिपुरहमिति भावनशीला ॥ 4 ॥

 

त्वरितमुपैति न कथमभिसारम् ।

हरिरिति वदति सखीमनुवारम् ॥ 5 ॥

 

श्लिष्यति चुम्बति जलधरकल्पम् ।

हरिरुपगत इति तिमिरमनल्पम् ॥ 6 ॥

 

भवति विलम्बिनि विगलितलज्जा ।

विलपति रोदिति वासकसज्जा ॥ 7 ॥

 

श्रीजयदेवकवेरिदमुदितम् ।

रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥

 

विपुलपुलकपालिः स्फीतसीत्कारमन्त-

र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।

तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां

रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥

 

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि

प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।

इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-

व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥

 

किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि

भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।

रधायावचनं तदध्वगमुखान्नन्दान्तिकेगोपतो

गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥

 

॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥

 

गीतगोविन्दं सप्तमः सर्गः – नागर नारयणः

 

॥ सप्तमः सर्गः ॥

॥ नागरनारायणः ॥

 

अत्रान्तरे च कुलटाकुलवर्त्मपात-सञ्जातपातक इव स्फुटलाञ्छनश्रीः ।

वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ 40 ॥

 

प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।

विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ 41 ॥

 

॥ गीतं 13 ॥

 

कथितसमयेऽपि हरिरहह न ययौ वनम् ।

मम विफलमिदममलरूपमपि यौवनम् ॥

यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ 1 ॥

 

यदनुगमनाय निशि गहनमपि शीलितम् ।

तेन मम हृदयमिदमसमशरकीलितम् ॥ 2 ॥

 

मम मरणमेव वरमतिवितथकेतना ।

किमिह विषहामि विरहानलचेतना ॥ 3 ॥

 

मामहह विधुरयति मधुरमधुयामिनी ।

कापि हरिमनुभवति कृतसुकृतकामिनी ॥ 4 ॥

 

अहह कलयामि वलयादिमणीभूषणम् ।

हरिविरहदहनवहनेन बहुदूषणम् ॥ 5 ॥

 

कुसुमसुकुमारतनुमतनुशरलीलया ।

स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ 6 ॥

 

अहमिह निवसामि नगणितवनवेतसा ।

स्मरति मधुसूदनो मामपि न चेतसा ॥ 7 ॥

 

हरिचरणशरणजयदेवकविभारती ।

वसतु हृदि युवतिरिव कोमलकलावती ॥ 8 ॥

 

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-

र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।

कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः

सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ 42 ॥

 

अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।

विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ 43 ॥

 

॥ गीतं 14 ॥

 

स्मरसमरोचितविरचितवेशा ।

गलितकुसुमदरविलुलितकेशा ॥

कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ 1 ॥

 

हरिपरिरम्भणवलितविकारा ।

कुचकलशोपरि तरलितहारा ॥ 2 ॥

 

विचलदलकललिताननचन्द्रा ।

तदधरपानरभसकृततन्द्रा ॥ 3 ॥

 

चञ्चलकुण्डलदलितकपोला ।

मुखरितरसनजघनगलितलोला ॥ 4 ॥

 

दयितविलोकितलज्जितहसिता ।

बहुविधकूजितरतिरसरसिता ॥ 5 ॥

 

विपुलपुलकपृथुवेपथुभङ्गा ।

श्वसितनिमीलितविकसदनङ्गा ॥ 6 ॥

 

श्रमजलकणभरसुभगशरीरा ।

परिपतितोरसि रतिरणधीरा ॥ 7 ॥

 

श्रीजयदेवभणितहरिरमितम् ।

कलिकलुषं जनयतु परिशमितम् ॥ 8 ॥

 

विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।

विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ 44 ॥

 

॥ गीतं 15 ॥

 

समुदितमदने रमणीवदने चुम्बनवलिताधरे ।

मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥

रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ 1 ॥

 

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।

कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ 2 ॥

 

घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।

मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ 3 ॥

 

जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।

मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ 4 ॥

 

रतिगृहजघने विपुलापघने मनसिजकनकासने ।

मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ 5 ॥

 

चरणकिसलये कमलानिलये नखमणिगणपूजिते ।

बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ 6 ॥

 

रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।

किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ 7 ॥

 

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।

कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ 8 ॥

 

नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे

स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।

पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-

रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ 45 ॥

 

॥ गीतं 16 ॥

 

अनिलतरलकुवलयनयनेन ।

तपति न सा किसलयशयनेन ॥

सखि या रमिता वनमालिना ॥ 1 ॥

 

विकसितसरसिजललितमुखेन ।

स्फुटति न सा मनसिजविशिखेन ॥ 2 ॥

 

अमृतमधुरमृदुतरवचनेन ।

ज्वलति न सा मलयजपवनेन ॥ 3 ॥

 

स्थलजलरुहरुचिकरचरणेन ।

लुठति न सा हिमकरकिरणेन ॥ 4 ॥

 

सजलजलदसमुदयरुचिरेण ।

दलति न सा हृदि चिरविरहेण ॥ 5 ॥

 

कनकनिकषरुचिशुचिवसनेन ।

श्वसति न सा परिजनहसनेन ॥ 6 ॥

 

सकलभुवनजनवरतरुणेन ।

वहति न सा रुजमतिकरुणेन ॥ 7 ॥

 

श्रीजयदेवभणितवचनेन ।

प्रविशतु हरिरपि हृदयमनेन ॥ 8 ॥

 

मनोभवानन्दन चन्दनानिल

प्रसीद रे दक्षिण मुञ्च वामताम् ।

क्षणं जगत्प्राण विधाय माधवं

पुरो मम प्राणहरो भविष्यसि ॥ 46 ॥

 

रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो

विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।

हृदयमदये तस्मिन्नेवं पुनर्वलते बलात्

कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ 47 ॥

 

बाधां विधेहि मलयानिल पञ्चबाण

प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।

किं ते कृतान्तभगिनि क्षमया तरङ्गै-

रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ 48 ॥

 

प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीताम्बरम्

रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।

व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने

स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥

 

॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥

 

गीतगोविन्दं अष्टमः सर्गः – विलक्ष्य लक्ष्मीपतिः

 

॥ अष्टमः सर्गः ॥

॥ विलक्ष्यलक्ष्मीपतिः ॥

 

अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।

अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ 49 ॥

 

॥ गीतं 17 ॥

 

रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।

वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥

हरिहरि याहि माधव याहि केशव मा वद कैतववादं

तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ 50 ॥

 

कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।

दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ 2 ॥

 

वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।

मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ 3 ॥

 

चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।

दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ 4 ॥

 

दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।

कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ 5 ॥

 

बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।

कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ 6 ॥

 

भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।

प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ 7 ॥

 

श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।

शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ 8 ॥

 

तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव

प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।

ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव

त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ 50 ॥

 

॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

 

गीतगोविन्दं नवमः सर्गः – मन्द मुकुन्दः

 

॥ नवमः सर्गः ॥

॥ मन्दमुकुन्दः ॥

 

तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् ।

अनुचिन्तितहरिचरितां कलहान्तरितमुवाच सखी ॥ 51 ॥

 

॥ गीतं 18 ॥

 

हरिरभिसरति वहति मधुपवने ।

किमपरमधिकसुखं सखि भुवने ॥

माधवे मा कुरु मानिनि मानमये ॥ 1 ॥

 

तालफलादपि गुरुमतिसरसम् ।

किं विफलीकुरुषे कुचकलशम् ॥ 2 ॥

 

कति न कथितमिदमनुपदमचिरम् ।

मा परिहर हरिमतिशयरुचिरम् ॥ 3 ॥

 

किमिति विषीदसि रोदिषि विकला ।

विहसति युवतिसभा तव सकला ॥ 4 ॥

 

सजलनलिनीदलशीतलशयने ।

हरिमवलोक्य सफलय् नयने ॥ 5 ॥

 

जनयसि मनसि किमिति गुरुखेदम् ।

शृणु मम वचनमनीहितभेदम् ॥ 6 ॥

 

हरिरुपयातु वदतु बहुमधुरम् ।

किमिति करोषि हृदयमतिविधुरम् ॥ 7 ॥

 

श्रीजयदेवभणितमतिललितम् ।

सुखयतु रसिकजनं हरिचरितम् ॥ 8 ॥

 

स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि

द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।

युक्तं तद्विपरीतकारिणि तव श्रीखण्डचर्चा विषं

शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ 52 ॥

 

॥ इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥

 

गीतगोविन्दं दशमः सर्गः – चतुर चतुर्भुजः

 

॥ दशमः सर्गः ॥

॥ चतुरचतुर्भुजः ॥

 

अत्रान्तरे मसृणरोषवशामसीम्-

निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।

सव्रीडमीक्षितसखीवदनां दिनान्ते

सानन्दगद्गदपदं हरिरित्युवाच ॥ 53 ॥

 

॥ गीतं 19 ॥

 

वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।

स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥

प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि

मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ 1 ॥

 

सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।

घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ 2 ॥

 

त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।

भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ 3 ॥

 

नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।

कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ 4 ॥

 

स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।

रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ 5 ॥

 

स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।

भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ 6 ॥

 

स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।

ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ 7 ॥

 

इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।

जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ 8 ॥

 

परिहर कृतातङ्के शङ्कां त्वया सततं घन-

स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।

विशति वितनोरन्यो धन्यो न कोऽपि

ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ 54 ॥

 

मुग्धे विधेहि मयि निर्दयदन्तदंश-

दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।

चण्डि त्वमेव मुदमञ्च न पञ्चबाण-

चण्डालकाण्डदलनादसवः प्रयान्तु ॥ 55 ॥

 

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं

तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।

सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां

स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ 56 ॥

 

बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि-

र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।

नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये

प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ 57 ॥

 

दृशौ तव मदालसे वदनमिन्दुसन्दीपकं

गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।

रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-

वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ 58 ॥

 

॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥

 

गीतगोविन्दं एकादशः सर्गः – सानन्द दामोदरः

 

॥ एकादशः सर्गः ॥

॥ सानन्ददामोदरः ॥

 

सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं

गतवति कृतवेशे केशवे कुञ्जशय्याम् ।

रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति

निरवसादां कापि राधां जगाद ॥ 59 ॥

 

॥ गीतं 20 ॥

 

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।

सम्प्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥

मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ 1 ॥

 

घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।

मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ 2 ॥

 

शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।

कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ 3 ॥

 

अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।

प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ 4 ॥

 

स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।

पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ 5 ॥

 

अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।

चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ 6 ॥

 

स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।

चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ 7 ॥

 

श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।

हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ 8 ॥

 

सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः

प्रीतिं यास्यति रम्यते सखि समागत्येति चिन्ताकुलः ।

स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति

प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ 60 ॥

 

अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि

श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।

धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि

ध्वान्तं नीलनिचोलचारु सदृशां प्रत्यङ्गमालिङ्गति ॥ 61 ॥

 

काश्मीरगौरवपुषामभिसारिकाणां

आबद्धरेखमभितो रुचिमञ्जरीभिः ।

एतत्तमालदलनीलतमं तमिश्रं

तत्प्रेमहेमनिकषोपलतां तनोति ॥ 62 ॥

 

हारावलीतरलकाञ्चनकाञ्चिदाम-

केयूरकङ्कणमणिद्युतिदीपितस्य ।

द्वारे निकुञ्जनिलयस्यहरिं निरीक्ष्य

व्रीडावतीमथ सखी निजगाह राधाम् ॥ 63 ॥

 

॥ गीतं 21 ॥

 

मञ्जुतरकुञ्जतलकेलिसदने ।

विलस रतिरभसहसितवदने ॥

प्रविश राधे माधवसमीपमिह ॥ 1 ॥

 

नवभवदशोकदलशयनसारे ।

विलस कुचकलशतरलहारे ॥ 2 ॥

 

कुसुमचयरचितशुचिवासगेहे ।

विलस कुसुमसुकुमारदेहे ॥ 3 ॥

 

चलमलयवनपवनसुरभिशीते ।

विलस रसवलितललितगीते ॥ 4 ॥

 

मधुमुदितमधुपकुलकलितरावे ।

विलस मदनरससरसभावे ॥ 5 ॥

 

मधुतरलपिकनिकरनिनदमुखरे ।

विलस दशनरुचिरुचिरशिखरे ॥ 6 ॥

 

वितत बहुवल्लिनवपल्लवघने ।

विलस चिरमलसपीनजघने ॥ 7 ॥

 

विहितपद्मावतीसुखसमाजे ।

भणति जयदेवकविराजे ॥ 8 ॥

 

त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः

कन्दर्पेण तु पातुमिच्छति सुधासम्बाधबिम्बाधरम् ।

अस्याङ्गं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-

क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ 64 ॥

 

सा ससाध्वससानन्दं गोविन्दे लोललोचना ।

सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ 65 ॥

 

॥ गीतं 22 ॥

 

राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।

जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥

हरिमेकरसं चिरमभिलषितविलासं सा ददार्श

गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ 1 ॥

 

हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।

स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ 2 ॥

 

श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।

नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ 3 ॥

 

तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।

स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ 4 ॥

 

वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।

स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ 5 ॥

 

शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।

तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ 6 ॥

 

विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।

मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ 7 ॥

 

श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।

प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ 8 ॥

 

अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-

प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।

इदानीं राधायाः प्रियतमसमालोकसमये

पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ 66 ॥

 

भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित-

स्मितं याते गेहाद्बहिरवहितालीपरिजने ।

प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं

सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ 67 ॥

 

॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥

 

गीतगोविन्दं द्वादशः सर्गः – सुप्रीत पीताम्बरः

 

॥ द्वादशः सर्गः ॥

॥ सुप्रीतपीताम्बरः ॥

 

गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-

स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।

सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-

प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ 68 ॥

 

॥ गीतं 23 ॥

 

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।

तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥

क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ 1 ॥

 

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।

क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ 2 ॥

 

वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।

विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ 3 ॥

 

प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।

मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ 4 ॥

 

अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।

त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ 5 ॥

 

शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।

श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ 6 ॥

 

मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।

मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ 7 ॥

 

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।

जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ 8 ॥

 

मारङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस-

प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।

निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं

वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ 69 ॥

 

अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।

निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ 70 ॥

 

॥ गीतं 24 ॥

 

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।

मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।

निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ 1 ॥

 

अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।

त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ 2 ॥

 

नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।

मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ 3 ॥

 

भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे ।

जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ 4 ॥

 

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।

विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ 5 ॥

 

मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।

रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ 6 ॥

 

सरसघने जघने मम शम्बरदारणवारणकन्दरे ।

मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ 7 ॥

 

श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।

हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥ 8 ॥

 

रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-

र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।

कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-

विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ 71 ॥

 

यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं

यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।

तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः

सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ 72 ॥

 

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।

पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ 73 ॥

 

॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥

॥ इति गीतगोविन्दं समाप्तम् ॥

 

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!