ram sahasranama

Ram Sahasranama| 1000 Names of Lord Rama| भगवान राम के 1000 नाम  | Shri Ram Sahasranamavali | राम सहस्रनाम | श्री राम सहस्रनामावली | राम सहस्त्रनाम | श्री राम सहस्रनाम | Ram Sahasranama in hindi | Ram Sahasranama hindi lyrics

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

 

ram sahasranama

 

 

यह राम नाम समस्त प्रकार की समृद्धि और सिद्धियां प्रदान करने वाला राम बाण है । यह सर्व मंगलकारक है । जो मनुष्य इस राम सहस्रनाम का पठन या श्रवण करता है उसे ब्रह्मपद प्राप्त होता है । यह सहस्रनाम पापों का नाशक , सौख्यवर्धक, भक्तों का रक्षक , स्त्री , पुत्र तथा सर्व सम्पत्तियों को देने वाला है । जो व्यक्ति इन नामों का नित्य ध्यान करता है वह संसार में निष्कंटक सुख भोग कर अंत में मोक्ष का भागी होता है ।

 

 

विनियोगः : अस्य श्री राम सहस्र नाम स्तोत्र महामन्त्रस्य , भगवान् ईश्वर ऋषिः , अनुष्टुप छन्दः, श्री रामः परमात्मा देवता , श्रीमान्महाविष्णु रिति बीजं , गुण भृन्निर्गुणो महानिति शक्तिः , संसार तारको राम इति मंत्रः , सच्चिदानंद विग्रह इति कीलकम , अक्षयः पुरुषः साक्षिति कवचं , अजेयः सर्व भूतानां त्यस्त्रं , राजीव लोचनः , श्रीमानिति ध्यानम श्रीरामप्रीत्यर्थे दिव्यसहस्र नाम जपे विनियोगः ।

 

करन्यासः :-

ॐ श्री रामचन्द्राय अंगुष्ठाभ्यं नमः ।

ॐ श्री सीतापतये तर्जनीभ्यां नमः ।

ॐ श्री रघुनाथाय मध्यमाभ्यां नमः ।

ॐ श्री भरताग्रजाय अनामिकाभ्यां नमः ।

ॐ श्री दशरथात्मजाय कनिष्ठकाभ्यां नमः ।

ॐ श्री हनुमत्प्र्भवे करतलकरपृष्ठाभ्यां नमः।

 

हृदयादिन्यास –

ॐ श्री रामचन्द्राय हृदयाय नमः ।

ॐ श्री सीतापतये शिरसे स्वाहा

ॐ श्री रघुनाथाय शिखायै वषट ।

ॐ श्री भरताग्रजाय कवचाय हुं ।

श्री दशरथात्मजाय नेत्रत्रयाय वौषट ।

श्री हनुमत्प्र्भवे  अस्त्राय फट ।

 

raam sahasranaam

 

 

ध्यानम

 

श्रीराघवम दशरात्मजं प्रमेयं सीतापतिं रघुकुलान्वय रत्न दीपम

आजानुबाहु मरविंद दलायताक्षं रामं निशाचर विनाश करम नमामि ।।

 

नीलाम्भुज श्यामल कोमलाङ्गं सीता समारोपित वाम भागम

पाणौ महासायकचारुचापं नमामि रामं रघुवंश नाथम ।।

 

लोकाभिरामं रण रंगधीरं राजीव नेत्रं रघु वंश नाथम

कारुण्य रूपं करुणा करम तं श्री रामचंद्रम शरणम् प्रपद्ये ।।

 

ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं

पीतं वासो वसानं नव कल दाल स्पर्धि नेत्रं प्रसन्नम ।

 

वामानकारूढ़ सीता मुख कमल मिल लोचनं नीरदाभं

नाना लङ्कार दीप्तं दादा तमुरुजटामंडलं रामचंद्रम ।।

 

नीलाम्भोदरकान्ति कान्त मनुषं वीरा सना ध्यासिनम

मुद्रां ज्ञान मयीम दधानमपरं हस्ताम्बुजं जानुनि।

 

सीतां पार्श्व गतां सरोरुह करां विद्युन्निभां राघवं

पश्यंतीम मुकुटांगदादि विविध कल्पोज्ज्वलांग भजे।।

 

 

shri ram sahasranamavali

 

 

स्तोत्रम 

 

राजीव लोचनः श्रीमान श्री रामो रघु पुंगवः।

रामभद्रः सदाचारो राजेन्द्रो जानकी पतिः ।। 1

 

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः ।

जनार्दनो जितामित्रः परार्थैक प्रयोजनः।। 2

 

विश्वामित्र प्रियो दान्तः शत्रुजिच्छत्रुतापनः ।

सर्वज्ञः सर्व देवादिः शरण्यो वालिमर्दनः ।। 3

 

ज्ञान भाव्यो परिच्छेद्यो वाग्मी सत्यव्रतः शुचिः ।

ज्ञान गम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान ।। 4

 

द्युतिमानात्मवान्वीरो जितक्रोधो रिमर्दनः ।

विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः।। 5

 

ईशः खङ्गधरः श्रीमान कौसलेयो अनुसूयकः।

विपुलांसो महोरस्कः परमेष्ठी परायणः ।। 6

 

सत्यव्रतः सत्यसन्धो गुरुः परम धार्मिकः ।

लोकज्ञो लोकवन्द्यश्च लोकात्मा लोक कृत्परः ।। 7

 

अनादिर्भगवान सेव्यो जितमायो रघूद्वहः ।

रामो दयाकरो दक्षः सर्वज्ञः सर्व पापनः ।। 8

 

ब्रह्मण्यो नीतिमान गुप्ता सर्वदेवमयो हरिः ।

सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ।। 9

 

सौम्यो महर्षिः कोदंडी सर्वज्ञः कोविदः ।

कविः सुग्रीव वरदः सर्व पुण्याधिक प्रदाः ।। 10

 

भव्यो जितारिषड्वर्गो महोदारो घनाशनः ।

सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः।। 11

 

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः ।

स्मितभाषी निवृत्तात्मा स्मृतिमान वीर्यवान प्रभुः ।। 12

 

धीरो दांतो घनश्यामः सर्वायुधविशारदः ।

अध्यात्मयोगनिलयः सुमना लक्षमणाग्रजः।। 13

 

सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः।

यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ।। 14

 

वर्णाश्रमकरो वर्णी शत्रुजित पुरुषोत्तमः ।

विभीषणप्रतिष्ठाता परमात्मा परात्परः ।। 15

 

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः।

अनंतदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ।। 16

 

गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।

अभिवन्द्यो महाकायो विश्वकर्मा विशारदः ।। 17

 

विनीतात्मा वीतरागः तपस्वीशो जनेश्वरः।

कल्याणप्रकृतिः कल्पः सर्वशः सर्वकामदः।। 18

 

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः ।

लोकाध्यक्षो महामायो विभीषण वरप्रदः ।। 19

 

आनंद विग्रहो ज्योतिर्हनुमत्प्र्भुरव्ययः ।

भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः।। 20

 

सुखदः कारणं कर्ता भवबंधनविमोचनः ।

देवचूणामणिर्रनेता ब्रह्मण्यो ब्रह्मवर्धनः ।। 21

 

संसारोत्तारको रामः सर्वदुःखविमोक्षकृत ।

विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्व धृत ।। 22

 

नित्यो नियत कल्याणः सीताशोकविनाशकृत ।

काकुत्स्थः पुण्डरीकाक्षो विश्वामित्र भयापहः।। 23

 

मारीचमथनो रामो विराधवधपण्डितः।

दुस्स्वप्ननाशनो रम्याः किरीटी त्रिदशाधिपः ।। 24

 

महाधनुर्महाकायो भीमो भीम पराक्रमः ।

तत्वस्वरूपी तत्वज्ञः तत्ववादी सुविक्रमः ।। 25

 

भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः  ।

अनिर्विण्णो गुणग्राही निष्कलंकः कलंकहा।। 26

 

स्वभावभद्रः शत्रुघ्नः केशवः स्थाणुरीश्वरः।

भूतादिः शम्भुरादित्यः स्थविष्ठः शाश्वतो ध्रुवः ।। 27

 

कवची कुंडली चाकरी खड्गी भक्तजनप्रियः ।

अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः ।। 28

 

अनुत्तमो प्रमेयात्मा सर्वादिर्गुणसागरः।

समः समात्मा संगो जटामुकुटमण्डितः।। 29

 

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपः ।

लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ।। 30

 

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः ।

अतीन्द्र ऊर्जितः प्रांशुरूपेन्द्रो वामनो बलि।। 31

 

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः ।

हंसो मरीचिर्गोविंदो रत्नगर्भो महामतिः ।। 32

 

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः ।

जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः।। 33

 

संभवोतींद्रियो वेद्योनिर्देशो जाम्ब्वत्प्रभो ।

मदनो मथनो व्यापी विश्वरूपो निरञ्जनः।। 34

 

नारायणोग्रणीः साधुर्जटायुप्रीतिवर्धनः।

नैकरूपो जगन्नाथः सुरकार्यहितः सवभूः ।। 35

 

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः ।

वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ।। 36

 

चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः ।

अगदो रोगहर्ता च मंत्रज्ञो मंत्रभावनः।। 37

 

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक ।

वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः।। 38

 

अतुलः सात्विको धीरः शरासन विशारदः ।

ज्येष्ठः सर्वगुणो पेतः शक्तिमां स्ताटकान्तकः ।। 39

 

वैकुण्ठः प्राणिनां प्राणाः कमठः कमलापतिः ।

गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः।। 40

 

कुम्भकर्णप्रभेत्ता च गोपीगोपालसंवृतः ।

मायावी स्वापनो व्यापी रैणुकेयबलापहः ।। 41

 

पिनाकमथनो वन्द्यः समर्थो गरुणध्वजः ।

लोकत्रयाश्रयो लोकभरितो भरताग्रजः ।। 42

 

श्रीधरः सदगतिर्लोकसाक्षी नारायणो बुधः ।

मनोवेगी मनोरूपी पूर्णः पुरुषपुंगवः।। 43

 

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः ।

तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ।। 44

 

चाणूरमर्दनो दिव्यः शान्तो भरतवन्दितः ।

शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः।। 45

 

लोकगर्भः शेषशायी क्षीराब्धि निलयो मलः।

आत्मायोनिरदीनात्मा सहस्राक्षः सहस्रपात ।। 46

 

अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः ।

त्रिकालज्ञो मुनिः साक्षी विहायसगतिः कृती।। 47

 

पर्जन्यः कुमुदो भूतावासः कमललोचनः ।

श्रीवत्सवक्षाः श्रीवासो वीरहा लक्षमणाग्रजः ।। 48

 

लोकाभिरामो लोकरिमर्दनः सेवकप्रियः ।

सनातनतमो मेघश्यामलो राक्षसान्तकृत ।। 49

 

दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः ।

भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ।। 50

 

उत्तमः सात्विकः सत्यः सत्यसंधस्त्रिविक्रमः ।

सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ।। 51

 

दामोदरो च्युतः शारङ्गी वामनो मधुराधिपः ।

देवकीनन्दनः शौरिः शूरः कैटभमर्दनः।। 52

 

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः।

कालस्वरूपी कालात्मा कालः कल्याणदः कविः ।

संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः।। 53

 

स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निरकुलः।

अनादिनिधनः सर्वलोकपूज्यो निरामयः।। 54

 

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः ।

सर्वदुःखातिगो विद्याराशि परमगोचरः।। 55

 

शेषो विशेषो विगतकल्मषो रघुनायकः ।

वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः।। 56

 

कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः।

देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ।। 57

 

सर्वदेवमयश्चक्री शार्ङ्गपाणिरनुत्तमः ।

मनो बुद्धिरहङ्कारः प्रकृतिः पुरुषोव्ययः ।। 58

 

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः ।

न्यायो न्यायी नयी श्रीमान्नयो नगधरो ध्रुवः ।। 59

 

लक्ष्मीविश्वम्भराभर्ता देवेंद्रो बलिमर्दनः ।

वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः।। 60

 

देवाग्रणीः शिवध्यानतत्परः परमः परः ।

सामगान प्रियोक्रूरः पुण्यकीर्तिः सुलोचनः ।। 61

 

पुण्यः पुण्यधिकः पूर्वः पूर्णः पूरयिता रविः ।

जटिलः कल्मषध्वांतप्रभंजनविभावसुः ।। 62

 

अव्यक्तलक्षणोव्यक्तो दशास्यद्वीपकेसरी ।

कलानिधिः कलारूपो कमलानन्दवर्धनः।। 63

 

जयो जितारिः सर्वादिः शमनो भवभञ्जनः।

अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ।। 64

 

अंशुः शब्दपतिः शब्दगोचरो रञ्जनो रघुः ।

निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ।। 65

 

आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात ।

सनातनतमः स्रग्वी पेशलो जविनां वरः।। 66

 

शक्तिमान शङ्खभृन्नाथः गदापद्मरथाङ्गभृत।

निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ।। 67

 

शताननः सहस्राक्षः शतमूर्तिरघनप्रभः।

हृत्पुण्डरीकशयनः कठिनो द्रव एव च ।। 68

 

उग्रो गृहपतिः कृष्णो समर्थोनर्थनाशनः ।

अधर्मशत्रुः रक्षोघ्नः पुरुहूतः पुरुष्टुतः।। 69

 

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः।

हिरण्यगर्भो ज्योतिष्मान सुललाटः सुविक्रमः ।। 70

 

शिवपूजारतः श्रीमान भवानी प्रियकृद्वशी।

नरो नारायणः श्यामः कपर्दी नीललोहितः ।। 71

 

रुद्रः पशुपतिः स्थाणुर्विश्वमित्रो द्विजेश्वरः ।

मातामहो मातरिश्वा विरिञ्चो विष्टरश्रवाः ।। 72

 

अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः ।

वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ।। 73

 

निदाघस्तपनो मोघः श्लक्षणः परबलापहृत ।

कबंधमथनो दिव्यः कम्बुग्रीवः शिवप्रियः ।। 74

 

शंखोनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः ।

असंसृष्टोतिथिः शूरः प्रमाथी पापनाशकृत ।। 75

 

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।

रामो नीलोत्पलश्यामो ज्ञानस्कंधो महाद्युतिः।। 76

 

पवित्र पादः पापारिर्मणिपूरो नभोगतिः ।

उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोभयः ।। 77

 

अमृतेशोमृतवपुर्धर्मी धर्मः कृपाकरः ।

भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ।। 78

 

उदारकीर्तिरुद्योगी वाङ्ग्मयः सदसन्मयः।

नक्षत्रमाली नाकेशः स्वाधिष्ठान षडाश्रयः ।। 79

 

चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः ।

निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ।। 80

 

श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः।

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।। 81

 

अकायो भक्तकायस्थः कालज्ञानी महावटुः ।

परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः।। 82

 

स्वभावभद्रो मध्यस्थः संसारभयनाशनः ।

वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः।। 83

 

सुरेन्द्रः करणं कर्म कर्मकृत्कर्म्यधोक्षजः ।

ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः ।। 84

 

परमार्थ गुरुर्वृद्धः शुचिराश्रितवत्सलः ।

विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञेशो यज्ञपालकः।। 85

 

प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः।

केशवः केशिहा काव्यः कविः कारणकारणम ।। 86

 

कालकर्ता कालशेषो वासुदेवः पुरुष्टतः।

आदिकर्ता वराहश्च माधवो मधुसूदनः ।। 87

 

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः ।

विश्वकर्ता महायज्ञो ज्योतिष्मान पुरुषोत्तमः ।। 88

 

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।

नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः।। 89

 

आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः ।

गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ।। 90

 

पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः ।

त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः।। 91

 

वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ।

भक्तप्रियोच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः।। 92

 

कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः।

संन्यासी शास्त्रतत्वज्ञो मंदरादृनिकेतनः।। 93

 

बदरीनिलयः शान्तस्तपस्वी वैद्युत प्रभः।

भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ।। 94

 

तपोवासो मुदावासः सत्यवासः सनातनः ।

पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ।। 95

 

पूर्णमूर्तिः पुराणज्ञः पुण्यदः पुण्यवर्धनः ।

शङ्खी चक्री गदी शार्ङ्गी लांगली मुसली हली ।। 96

 

किरीटी कुंडली हारी मेखली कवची ध्वजी।

योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ।। 97

 

शास्ता शास्त्रकरः शास्त्रम शङ्कर शङ्करस्तुतः।

सारथिः सात्विकः स्वामी सामवेदप्रियः समः ।। 98

 

पवनः साहसः शक्तिः सम्पूर्णाङ्गः समृद्धिमान ।

स्वर्गदः कामदः श्रीदः कीर्तिदो कीर्तिनाशनः ।। 99

 

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः।

सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ।। 100

 

सर्वदेवो जगन्नाथः सर्वलोकमहेश्वरः ।

सर्गस्थित्यन्त कृददेवः सर्वलोकसुखावहः ।। 101

 

अक्षय्यः शाश्वतो नन्तः क्षयवृद्धिविवर्जितः ।

निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः।। 102

 

सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ।

अधिकारी विभुर्नित्यः परमात्मा सनातनः ।। 103

 

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।

श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः ।। 104

 

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।

सत्यवान गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान ।। 105

 

कालात्मा भगवान कालः कालचक्रप्रवर्तकः ।

नारायणः परंज्योतिः परमात्मा सनातनः ।। 106

 

विश्व सृड्विश्वगोप्ता च विश्वभोक्ता च शाश्वतः ।

विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ।। 107

 

सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः ।

सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः ।। 108

 

सर्वगः सर्वभूतेशाह सर्वभूताशयस्थितः ।

अभ्यन्तरस्थस्त मसश्छेत्ता नारायणः परः।। 109

 

अनादिनिधनः सृष्टा प्रजापतिपतिर्हरिः ।

नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी।। 110

 

जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः ।

कर्ता धाता विधाता च सर्वेषाम प्रभुरीश्वरः ।। 111

 

सहस्रमूर्धा विश्वात्मा विष्णुर्विश्वदृगव्ययः ।

पुराणपुरुषः सृष्टा सहस्राक्षः सहस्रपात ।। 112

 

तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः ।

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।। 113

 

परंज्योतिः परंधामः पराकाशः परात्परः ।

अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ।। 114

 

नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः ।

हिरण्यगर्भः सविता लोककृलोक भृद्विभुः।। 115

 

रामः श्रीमान महाविष्णुर्जिष्णुर्देवहितावहः।

तत्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ।। 116

 

अकारवाच्यो भगवान् श्रीरभूनीलापतिः पुमान ।

सर्वलोकमहेश्वरः श्रीमान सर्वज्ञः सर्वतोमुखः ।। 117

 

स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान ।

नित्यः सम्पूर्ण कामश्च नैसर्गिक सुहृत्सुखी ।। 118

 

कृपापीयूषजलधिः शरण्यः सर्वदेहिनाम ।

श्रीमन्नरायणः स्वामी जगतां पतिरीश्वरः ।। 119

 

श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः ।

अनन्तः श्रीपति रामो गुण भृन्निर्गुणो महान ।। 120

 

।। इति आनन्दरामायणे वाल्मिकीये श्रीरामसहस्रनामस्तोत्रम ।।

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

 

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

 

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

 

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!