नारायण अथर्वशीर्ष

नारायण अथर्वशीर्ष / ॐ नमो नारायणाय

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

श्री नारायण अथर्वशीर्ष ब्रह्म विद्या का पाठ करने से व्यक्ति निष्पाप हो जाता है और अंत में नारायण को प्राप्त कर लेता है। इसके पाठ से चारो वेदों के पाठ का फल मिलता है।

 

नारायण अथर्वशीर्ष


(प्रथमः खण्डः
नारायणात् सर्वचेतनाचेतनजन्म)

ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।
नारायणादिन्द्रो जायते । नारायणात्प्रजापतिः प्रजायन्ते ।
नारायणाद् द्वादशित्या रुद्रा वसवः सर्वाणि च छन्दांसि।
नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥
एतदृग्वेदशिरोऽधीते ।।1।।

(द्वितीयः खण्डः
नारायणस्य सर्वात्मत्वम्)

ॐ । अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः ।
शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः ।
नारायणः । दिशश्च नारायणः । ऊर्ध्वंश्च नारायणः । 
अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेदं सर्वम् । 
यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः 
शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद । 
स विष्णुरेव भवति स विष्णुरेव भवति ॥ 
एतद्यजुर्वेदशिरोऽधीते ।।2।।

(तृतीयः खण्डः
नारायणाष्टाक्षरमन्त्रः "ॐ नमो नारायणाय" )

ओमित्यग्रे व्याहरेत् । नमो इति पश्चात् । नारायणायेत्युपरिष्टात् । 
ओमित्येकाक्षरम् । नमो इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् । 
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवस्सर्वमायुरेति । 
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥
एतत्सामवेदशिरोऽधीते ।।3।।


narayan atharvashirsh sanskrit lyrics

(चतुर्थः खण्डः
नारायणप्रणवः)

प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति । 
तानेकधा समभरत्तदेतदोमिति ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति । 
तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात्तटिदाभमात्रम् । 
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । 
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्यत इति ।
सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परं ब्रह्म ॐ ।
एतदथर्वशिरोयोऽधीते ।।4।।

विद्याऽध्ययनफलम् ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति । 
सायमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायंप्रातरधीयानोऽपापो भवति ।
माध्यन्दिनमादित्याभिमुखोऽधीयानः 
पञ्चमहापातकोपपातकात् प्रमुच्यते ।
सर्व वेद पारायण पुण्यं लभते ।
नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति ।
य एवं वेद ।।5।। इत्युपनिषत् ॥

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!