Shri Narasimha Kavacham | प्रह्लाद कृत नरसिम्हा कवच | नरसिम्हा कवच | श्री नृसिंह कवच | नृसिंह कवच | श्री नृसिंह कवचं | Sri Narasimha Kavacham | श्री नृसिंह कवच: मंत्र | नरसिंह कवच | Shri Narasimha Kavach |
Subscribe on Youtube: The Spiritual Talks
Follow on Pinterest: The Spiritual Talks
नृसिंह कवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १ ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥2
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितं ॥3
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितं ।
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥4
तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥5
विराजितपदद्वंद्वं शङ्खचक्रादिहेतिभिः।
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥6
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत।
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।।7
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनिं ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥8
स्मृतिं मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रिय: ॥9
सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः॥10
नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥11
करौ मे देववरदो नृसिंह: पातु सर्वत: ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥12
मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥13
ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरूपधृक्॥14
ऊरु मनोभव: पातु जानुनी नररूपधृक्।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥15
सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥16
महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥17
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥18
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयद: पातु मृत्योर्मृत्युर्नृकेसरी ॥19
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥20
पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।
यं यं कामयते कामं तं तं प्रप्नोत्यसंशयं ॥21
सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणं ॥22
वृश्चिकोरगसंभूतविषापहरणं परं ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥23
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।
करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥24
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत ।
एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥25
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ।।26
कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।
अनेन मंत्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥27
तिलकं विन्यसेद्यस्तु तस्य गृहभयं हरेत।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥28
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत्।
तस्य रोगा: प्रणश्यन्ति ये च स्यु: कुक्षिसंभवा: ॥29
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।
मनसा चिंतितं यत्तु स तच्चाप्नोत्यसंशयं ॥30
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।।31
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥32
॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् संपूर्णंम॥
Be a part of this Spiritual family by visiting more spiritual articles on:
For more divine and soulful mantras, bhajan and hymns:
Subscribe on Youtube: The Spiritual Talks
For Spiritual quotes , Divine images and wallpapers & Pinterest Stories:
Follow on Pinterest: The Spiritual Talks
For any query contact on:
E-mail id: thespiritualtalks01@gmail.com